पूजन संग्रह लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
पूजन संग्रह लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

वेदी पूजन पद्धति-vedi-pujan-padhati

✨ सम्पूर्ण वेदी पूजनम् ✨

मङ्गलाचरण
मङ्गलम् भगवान् विष्णु मङ्गलम् गरुडध्वजः ।
मङ्गलम् पुण्डरीकाक्षो मङ्गलायतनो हरिः ।।
मङ्गला भगवती देवी मङ्गला सिंघवाहिनी ।
मङ्गला च जगद्धात्री मङ्गलायै नमो नमः।।
मङ्गलम् कौशलेंद्राय महनीय गुणाब्धये ।
चक्रवर्ती तनूजाय सार्वभौमाय मङ्गलम् ।।
मङ्गलम् लक्ष्मण भ्राता मङ्गलम् जानकीश्वरः ।
मङ्गलम् शुभदो रामः मङ्गलम् हनुमत् प्रियः ।।
मङ्गलम् परमानन्दो मङ्गलम् परमेश्वरः ।
मङ्गलम् श्री पद्म नाभो मङ्गलम् पद्मलोचनः ।।
मङ्गलम् करूणा सिंधुः मङ्गलम् विश्वपालकः ।
मङ्गलम् सच्चिदानन्दो मङ्गलम् जगदीश्वरः ।।
मङ्गलम् श्री रङ्गनाथो मङ्गलम् पुरूषोत्तमः ।
मङ्गलम् कमलाकान्तो मङ्गलम् भक्तवत्सलः ।।
पवित्रीधारण
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यान्तरः शुचिः ।।
आचमन
ॐ केशवाय नमः ! ॐ नारायणाय नमः ! ॐ माधवाय नमः !
ॐ रामाय नमः ! ॐ रामचन्द्राय नमः ! ॐ रामभद्राय नमः !
आसन शुद्धिः
ॐ पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ।।
ॐ पृथ्वी त्वया घृता लोका देवि त्वं विष्णुना घृता !
त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।
पवित्रीधारणम्
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव !
उत्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः !!
तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।
शिखाबन्धनम्
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते !
तिष्ठ देवि शिखा मध्ये तेजोवृद्धि कुरूष्व में ।।
ग्रन्थिबन्धनम्
ॐ यदाबन्धनन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मां
तन्नऽआबध्नामि शत् शारदाया युष्मान् जर दृष्टिर्यथा स ।।
प्राणायामः
ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च !
मयस्कराय च नमः शिवाय च शिवतराय च ।।
दिग् रक्षण
ॐ अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिताः !!
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया !
अपक्रामन्तु भूतानां पिशाचाः सर्वतो दिशः !
सर्वेषामविरोधेन् पूजाकर्म समारभेत् ।।
पूर्वे रक्षतु वाराह आग्नेय्यां गरूडध्वजः ।
दक्षिणे पद्मनाभस्तु नैऋृत्यां मधुसूदनः !
पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दनः
उत्तरे श्रीपति रक्षेद् ईशान्यां तु महेश्वरः !
ऊर्ध्वं गोवर्धनो रक्षेद् अधो नन्तस्तथैव च !
एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः।।
स्वस्तिवाचन
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः !
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे !!
देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम् !
देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे !!
तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् !
अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम् !!
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम् !
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये !!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः !
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु !!
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः !
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह !!
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः !
स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः !!
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् !
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः !!
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः !
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् !
द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः !
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि !!
यतो यतः समीहसे ततो नो अभयं कुरु !
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः !! सुशान्तिर्भवतु !!
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव !!
इति नमस्कृत्य मङ्गलपाठम्
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
पूजारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषां हृदिस्थो भगवान्मंगलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवां नीतिर्मतिर्मम् ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृतेः सकलकल्याणंभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मे शानजनार्दनाः ॥
विश्वेशं माधवं दुण्डिं दण्डपाणि च भैरवम् ।
वन्दे काशी गुहां गंगां भवानी मणिकर्णिकाम् ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैतामोक्ष दायिका ॥
वक्रतु़ण्ड महाकाय कोटिसूर्य समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान् ।
सरस्वती प्रणम्यादौ सर्व कार्येषु सर्वदा ॥
सितासिते यत्र चामरे नद्यौ विभाते मुनि भानुकन्यके ।
नीलात्पत्रं वट एव साक्षात् स तीर्थराजो जयति प्रयागः ॥
श्री सद्गुरू स्मरण मंत्र
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं, द्वंद्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभुतं सद्गुरूं तं नमामि।।
श्री गणेश स्मरण मंत्र
हस्तीन्द्राननमिन्दुचूडमरूणच्छायं त्रिनेत्रं रसा, दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया संततम् ।
बीजापूरगदाधनुस्त्रिशिखयुत्चक्राब्जपाशोत्पल-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे।।
श्री गौरी स्मरण मंत्र
चाञ्चल्यारूणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं, चारूस्मेरमुखां चराचरजगत्संरक्षणीं सत्पदाम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां, श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।
श्री कलश स्मरण मंत्र
नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय ।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते।।
श्री षोडशमातृका स्मरण मंत्र
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया ।
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रासुधाः ।
चामुण्डा गणनाथरूद्रसहिता रक्षन्तु नो मातरः ।।
श्री सप्तघृतमातृका स्मरण मंत्र
सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरावर्तनाभिः स्तनभरमिता शुभ्रवस्त्रोत्तरीया ।।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः ।
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ।।
श्री नवग्रह स्मरण मंत्र
आधारे प्रतमे सहस्त्रकिरणं ताराधवं स्वाश्रये ।
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम् ।।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकुटस्थले ।
नाडिमर्मसु राहु-केतु-तिलका नित्यं नमाम्यायुषे ।।
श्री वास्तोष्पति स्मरण मंत्र
वास्तोस्पते सकल किल्विष कल्म वारे ।
लोकस्य राक्षण विधौ त्वधि जात भूमौ ।।
ऋद्धि प्रदो भवतु सर्व शरीर भाजां ।
देवाधिदेव नितरां कुरू मङ्गलम् में ।।
नैऋत्य यज्ञ भवने भुवने गृहे च ।
पूजां गृहाण विधिना सृकृतं विधत्स्व ।
दोषं व्यपोहतु गृहस्य च में पुनातु ।
माम पाहि पाहि कृपया खलु वास्तु देव ।।
श्री क्षेत्रपाल स्मरण मंत्र
करकलितकपालः कुंडली दंडपाणिः ।
तरूणतिमिरनीलो व्याल यज्ञोपवीती ।।
क्रतुसमयसपर्या विघ्नविच्छेद हेतुः ।
जयति बटुकनाथः सिद्धिदः साधकानाम् ।।
श्री सर्वतो भद्र मण्डल स्मरण मंत्र
रोगा हरन्ति सततं प्रबलाः शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन् दिनानि,तस्मात्त्वमद्य शरणं मम दीनबन्धो ।।

satyanarayan katha in hindi


🌺 संपूर्ण सत्यनारायण पूजन विधि

श्री सत्यनारायण-पूजन तथा कथा-श्रवण अत्यन्त पवित्र,पुण्यप्रद और समस्त मङ्गलोंको प्रदान करनेवाला हैं । बड़े ही उत्साह एवं श्रद्धा-भक्तिसे समन्वित होकर इसका अनुष्ठान करना चाहिये । इससे जीवनमें सत्यकी प्रतिष्ठा स्थापित होती हैं और भगवान् की विशेष कृपा भी प्राप्त होती हैं ।

पूजन तथा कथा-श्रवण आदिके लिये किसी पवित्र स्थानमें, देवस्थानमें अथवा घरमें, मंदिरमें, मण्डप बनाकर उसको अनेक प्रकार से अलङ्कृत करना चाहिये । चारो तरफ भगवान् के सुन्दर विग्रहोंको लगाना चाहिये । मण्डपके मध्यमें भगवान् सत्यनारायण (श्री हरिविष्णु भगवान् का या शालग्रामशिला)-के लिये एक सिंहासन लगाकर उसपर भगवान् के विग्रहोंको प्रतिष्ठित करना चाहिये । यथासम्भव केलेके स्तम्भोंसे मण्डपको मण्डित करना चाहिये और भगवती तुलसी देवी-को स्थापित करना चाहिये ।।


🔹श्रीसत्यनारायण पूजन सामग्री

  • रोली १ पै० , कलावा ३ पै० , सिन्दूर १ पै०,  हल्दी पाउडर ५० ग्रा०, शहद ५० ग्रा० गुडबतासा १०० ग्रा० गङ्गाजल , जनेऊ ५ पीस, लाल कपड़ा १ मीटर , गमछा १ , अगरबत्ती १ पै०, माचिस १ , लौंग ५ रू०, इलायची ५ रू०, सुपारी ११ नग, बासमती चावल २०० ग्रा०, शुद्ध गाय घी, रूईबत्ती १ पै०, कपूर १० पीस, दोना १ पै०, 
  • नारियल, आम के पत्ते,  फूलमाला, पंचमेवा, दिया ५ पीस , दूबघास , पानपत्ता ११ नग, तुलसीपत्ता, केला पत्ता, फल मिठाई स्वेच्छा पूर्वक, दूध १०० ग्रा०, दही १०० ग्रा०, जटा नारियल १ पीस, 

🔹सम्पूर्ण हवन सामग्री 

नारियल गोला १ पीस, आम की लकड़ी हवन अनुसार, नवग्रह लकड़ी १ पै०, दशांग हवन १ पै० , कालातिल १०० ग्रा०, जौ ५० ग्रा०, अक्षत २५ ग्रा०, इन्द्र जौ ५० ग्रा०, कमलगट्टा ५० ग्रा०, भोजपत्र १ पै०, गूगल १ पै०,  

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
© 2025 आपका ब्लॉग नाम

sampurn pujan vidhi

 (1) मङ्गलाचरणम् 

 मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।

  मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।

(2) पवित्रकरणम् 

  अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।

(3) त्रिराचमनम् 

 केशवाय नमः ।  माधवाय नमः ।  नारायणाय नमः ।  गोविन्दाय नमः ।।

(4) आसनशुद्धिः- 

 पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः । 

 पृथ्वि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।

(5) पवित्रीधारणम् --

 पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।

(6) तिलक या भस्म धारणम् 

 आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।

 त्र्यायुषं जमदग्न्ने । कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषम् । तन्नोऽअस्तु त्र्यायुषम् ।।

(7) शिखा बन्धनम् 

 चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबन्धे तेजो वृद्धिं कुरूष्वमे ।।

(8) यजमान  प्राणायामः- करे ।।

 ब्रह्म यज्ञानं प्रथमं पुरस्ताद् विसीमतः सूरुचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च योनिमसतश्च विवः-

(9) रक्षा विधानम्  दिग् रक्षणम् ।।

 गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णु रूद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ।।

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ।।

दैत्याचार्य़ं नमस्कृत्य सूर्यपूत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः ।।

शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्ग मुनिं नमस्कृत्य नारदं मुनिसत्तमम् ।।

वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्र विशारदम् ।।

विद्याधिका ये मुनय आचार्यश्च तपोधनाः । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षा करान् सदा ।। 

(10) स्वस्तिवाचन मङ्गलपाठ 

हरिः  आनो  भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो  रक्क्षितारो दिवे दिवे ।। १ ।। 

देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।

तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।

तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।

पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।

भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।

 










देवी देवताओं का ध्यान मन्त्र


।। गणेश ध्यानम् ।।

श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः ।

क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्नसिंहासनस्थम् ।

दौर्भिः पाशाङ्कुशा अभयवरमनसां चन्द्रमौलिं त्रिनेत्रं ।

ध्यायेच्छात्यर्थमाशं गणपतिममलं श्रीसमेतं प्रसन्नम् ।।

श्री गणपति स्तुति

यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति । 

परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥

श्री रामचन्द्र ध्यानम् 

श्रीरामः शरणं समस्तजगतां रामं विना का गती ।

रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।।

रामात्  त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे ।

रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः ।।

 ।। सर्वतोभद्र मंडल ध्यान श्लोक ।। 

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्तिदिव्यैः स्तवै- र्वेदैः साङ्गपदक्रोपनिषदैर्गायन्ति यं सामगाः। 

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ||

।। सर्वतो भद्र मंडल प्रार्थना श्लोक।। 

योऽस्योत्प्रेक्षक आदिमध्यनिधेने योऽव्यक्तजीवेश्वरो यः सृष्टवेदनुप्रविष्य ऋषिणा चक्रे पुरः शास्ति ताः। 

यं संपद्य जत्यजामनुशायि सुप्तः कुलायं यथा तं कल्याणिरस्तयोर्निमभयं ध्यायेदजस्रं हरिम् ॥

।। लिंगतोभद्र मंडल ध्यान श्लोक।। 

हिमध्वल मुदारं चन्द्रसूर्याग्नि धारं निज्जन मविकारं निर्मिमानं मुदारम्। 

गगन वित देहं सर्वसौख्यैक गेहं नितिलकृत कलेशं श्रीमहेशं नमामि ।।

 एकलिङ्गतोभद्र मण्डल ध्यानम् 

नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।

।। लिंगङ्गतोभद्र मण्डल प्रार्थना श्लोक ।। 

हस्ताभ्यां कलशद्वयामृतघातयः आप्लवयन्तं शिरः द्वाभ्यां तो दधातं मृगाक्षवलये द्वाभ्यां वहन्तं परं। 

एके न्यस्तकरद्वयामृतघटं कैलासकंतां शिवं आनंदंभोजगत नवेंदुमुकुटं देवं त्रिनेत्रं भजे ॥

।। गौरीतिलक मंडल ध्यान श्लोक।।

सुधासिन्धो मध्ये सुरवित्पावति परिवृते मणिद्वीपो निपो पवन्ति चिंतामणि गृहे। 

शिवाङकारे मंचे परं शिव पर्यङ्क निलये भजन्तिं त्वां धन्यां कटिचन चिदानंद तरंगि।।

।। गौरीतिलक मंडल ध्यान श्लोक।।

किं कार्यं कठिनं कुतः परिभवः कुत्रपवादद् भयं किं मित्रं न हि किन्नु राजसदनं गम्यं न विद्या च का । 

किं वाऽन्यजज्जगतीतले प्रवद यत्तेषामसंभावितं येषां हृतकमले सदा वसति स तोषप्रदा सङ्कता ।।

।। षोडश मातृका ध्यान श्लोक ।। 

गौरी पद्मा शची मेधा सोनिया विजया जया देवसेना स्वधा स्वाहा मातरो लोकमातरः। 

धृतिः पुष्टिस्तथा तुष्टिरत्नः कुलदेवता गणेशेनाधिका ह्येता वृद्धो पूज्याश्च षोडशः।।

श्री षोडशमातृका ध्यान

ब्रह्माणी कमलेन्दु सौम्य वदना माहेश्वरी लीलया ! 

कौमारी रिपु दर्य नाशन करी चक्रायुधा वैष्णवी !! 

वाराही घनघोर घर्घर मुखी चैन्द्री च वज्रायुधा ! 

चामुण्डा गणनाथ रुद्र सहिता रक्षन्तु नो मातरः !!

 षोडश मातृका प्रार्थना श्लोक।। 

तव च का किल न स्तुतिर्बिके! सकल शब्दमयी किल ते तनुः निखिलमत्रेषु मे भवदान्वयो मनसिजासु बहिः प्रसरसु च। 

इति विचिन्त्य शिवे ! शमिताशिवे! जगति जातम्यत्नवशादिदम् स्तुतिजपर्चनचिन्तनवर्जिता न खलु काचन कालकलास्ति मे ॥

।। सप्तघृतमातृका ध्यान श्लोक।।

 श्रीलक्ष्मीधृतिमेधा स्वाहा प्रज्ञा सरस्वती। माङ्गल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः ॥

।। सप्तघृतमातृका प्रार्थना श्लोक।। 

या सा पद्मासनस्था विपुलकटिति पद्मपत्रायताक्षी, अधावर्तनाभिः स्तनभरणमिता शुभ्रवस्त्रोदीया। 

या लक्ष्मीर्दिवरूपैर्मणिगणखचितैः सनापिता हेमकुंभैः सा नित्यं पद्महस्ता मम वस्तु गृहे सर्वमाङ्गल्ययुक्ता॥

।। चतुःषष्ठयोगिनी ध्यान श्लोक।।

 पूज्याम्यऽहं देवी योगिनी भगवानि। योगाभ्यासें आस्था परं ध्यान समन्विता।।

कालभ्रभं कटाक्षैरिकुलभ्यदं मौलिबद्धेंदुरेखां शंखं चक्रं कृपां त्रिशिखमपि करैरुद्वहन्ति त्रिनेत्रम्।

 सिंहस्कंधाधिरुढ़ां त्रिभुवनमखिलं तेजसा पूरयन्ति ध्यायेद् दुर्गा जयाख्यं त्रिदश परिवृतां सेवितं सिद्धिकामैः।।

।। चतुःषष्ठयोगिनी प्रार्थना श्लोक।। 

सृष्टौ या सर्ग रूपा जगद्वान विधौ पालनया च रौद्री संहारे चापि यस्या जगदीमखिलं क्रीडनं या पराख्या। 

पश्यन्ति मध्य माथो तदनु भगवती वैखरी वर्ण रूपा सस्मद्वाचं प्रसन्ना विधि हरि गिरिशा राधिता लक्क्रोतु ॥

।। नवग्रह प्रार्थना श्लोक।।

सूर्यः शौर्यमथेन्दुरुच्चपदवी सन्माङ्गलं मंगलः सदबुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः सुखं शनैः । 

राहुर्बाहुबलं करोतु सततं केतुः कुलस्योनातिं नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकुल ग्रहाः ॥

।। वास्तुमंडल ध्यान श्लोक।।

नौमीद्यतेभ्र वपुषे तदिदम्बराय गुंजवतंस परिपीक्षल सन्मुखाय वन्नसर्जे केवलवेत्र विषान वेषुः। 

लक्ष्मश्रये मृदुपते पशुपाङ्गञ्जय।।

।। वास्तुमंडल प्रार्थना श्लोक।। 

नमस्ते वास्तु पुरुषाय भूषाय भिरतप्रभो। मागृहे धन धान्यादि समृद्धि कुरु सर्वदा।।

देवेश वास्तुपुरुष सर्वविघ्न विधान। शांति कुरु सुखं देहि यज्ञेस्मिन् मम सर्वदा।।

।। क्षेत्रपाल ध्यान श्लोक।।

यं यं यं यक्षरूपं दशदिशिविदितं भूमिकंपायमानं सं सं संहार मूर्ति शिरमुकुत्जात शेखरं चंद्रबिंबम्। 

दं दं दं दीप्तकायं दोषनख मुखं राक्षस रेखा कपालं पं पं पन्न पापनाशं प्राणत पशुपतिं क्षेत्रपालं नमामि॥

।। क्षेत्रपाल प्रर्थना श्लोक ।।

 अतितीक्ष्ण महाकाय कल्पान्त गहनोऽपम । 

भैरवाय नमस्तुभ्य अनुभ्यान् दातुमर्हसि । । 

श्री हनुमत ध्यान

जंघाल जंघ उपमाति विदूरवेगे मुष्टिप्रहार परिमूर्च्छित राक्षसेन्द्रः ! 

श्रीरामकीर्तित पराक्रमणोद् भवश्रीः प्राकम्पनिर्विमुरुदण्डचतुभूतयेनः !!

द्रोणा चलानयन वर्णितभव्यभूतिः श्रीरामलक्ष्मण सहायक चक्रवर्ती ! 

काशीश्व दक्षिण विराजित सोद्यमल्लः श्रीमारुति विजयते भगवान महेशः !!

राधा जी का ध्यानम्

मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद-भारतीश्वरि प्रमाण - शासनेश्वरि ।

 रमेश्वरि क्षमेश्वरि प्रमोद - काननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तुते ।।

तुलसी ध्यानम् 

वृंदायै तुलसी देव्यै प्रियायै केशवस्य च । विष्णु - भक्ति- प्रदे देवी सत्यवत्यै नमो नमः ।। 

तुलसी प्रदक्षिणा मंत्र

यानि कानि च पापानि ब्रह्म हत्यादिकानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणः पदे पदे ।।

शिव स्तुति 

सत् सृष्टि ताण्डव रचयिता नटराज राज नमो नमः ।

हे आद्य गुरु शंकर पिता नटराज राज नमो नमः ।।

गंभीर नाद मृदंगमा भव के उरे ब्राह्मांडमा ।

नित होत नाद प्रचंडना नटराज राज नमो नमः ।।

सत् सृष्टि ताण्डव रचयिता नटराज राज नमो नमः ।














श्री गणेश पूजन


इस प्रकार, गणेश पूजन केवल धार्मिक कर्तव्य नहीं, बल्कि जीवन के हर क्षेत्र में सफलता और संतोष पाने का एक साधन है।

सर्वप्रथम पूजन आदिकी समस्त सामग्रीको यथास्थान रख ले और पवित्र होकर पवित्र आसनपर पूर्व दिशाकी ओर मुख करके बैठ जाय, रक्षा-दीप जलाकर पूर्वाभिमुख रख ले, तदनन्तर निम्न मन्त्रोंसे तीन बार आचमन करे

केशवाय नमः । नारायणाय नमः । माधवाय नमः ।

आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे ‘हृषीकेशाय नमः, गोविन्दाय नमः’ कहकर ओठोंको पोंछकर हाथ धो ले।

आसन शुद्धि

पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम्

पवित्रीधारणम् - 

ॐ पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।   

शिखा बन्धनम् -

ॐ  मानस्तो केतनये मानऽआयुषि मानो गोषुमानोऽअश्वेषुरीरिषः । मानो व्वीरान्न्रुद्द्र भामिनो व्वधीर्हविष्म्मन्तः सदमित्त्वाहवामहे ।।

प्राणायाम -

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरूचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च ज्योनिमसतश्च विवः ।।

स्वस्तिवाचनम् -

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।

हाथमें जल, अक्षत, पुष्प एवं द्रव्य लेकर सङ्कल्प करे-

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे बौद्धावतारे भूर्लोके जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशान्तर्गते अमुकक्षेत्रे विक्रमशके षष्ट्यब्दानां मध्ये अमुकनामसंवत्सरे अमुकायने अमुक ऋतौ महामाङ्गल्यप्रदमासोत्तमे अमुकमासे अमुकपक्षे अमुक-ऋतौ अमुकतिथौ अमुकवासरे अमुकनक्षत्रे एवं ग्रहगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रः अमुकोऽहं (सपत्नीकः) ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थमप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्तलक्ष्म्याश्चिरकालसंरक्षणार्थं सकलेप्सितकामनासिद्ध्यर्थं कायिकवाचिकमानसिकसकलदुरितोपशमनार्थं तथा आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं विशेषतः भगवत्प्रीत्यर्थं श्रीसत्यनारायणस्य पूजनकथाश्रवणाख्यं कर्म करिष्ये। (सङ्कल्पका जल छोड़ दे।) पुनर्जलमादाय (पुनः जल-अक्षत लेकर गणपति आदिके पूजनका सङ्कल्प करे-) तदङ्गत्वेन कार्यस्य निर्विघ्नता- सिद्ध्यर्थमादौ गौरीगणेशयोः पूजनम्, कलशाराधनं तथा च नवग्रहादिदेवानां नाममन्त्रैः पूजनमहं करिष्ये । 

(हाथमें लिये हुए जल-अक्षतादिको छोड़ दे।)

निष्काम – ॐ विष्णुर्विष्णुर्विष्णुः से अमुकोऽहं तक पहले सङ्कल्पके समान बोलकर आगे केवल इतना ही

बोले- भगवत्प्रीत्यर्थं श्रीसत्यनारायणस्य पूजनकथाश्रवणाख्यं च कर्म करिष्ये । (सङ्कल्पका जल छोड़ दे।)

पुनर्जलमादाय (पुनः जल-अक्षत लेकर गणपत्यादि-पूजनका सङ्कल्प करे-) तदङ्गत्वेन कार्यस्य निर्विघ्नता-

सिद्ध्यर्थमादौ गौरीगणेशयोः पूजनम्, कलशाराधनं तथा च नवग्रहादिदेवानां नाममन्त्रैः पूजनमहं करिष्ये ।

घण्टा पूजनम् -

गणपति और गौरीकी पूजा

गणपति ध्यानम्

विघ्नराज जगदीश्वर दीनबन्धो । द्वै मातुर प्रणत रक्षक शम्भु पुत्र ।।

कार्याणि कर्तुमखिलानि सुबुद्धिदात । स्त्वां पूजयामि गणनायक मे प्रसीद ।।

गौरी ध्यानम् -

गणपति आवाहनम् -

गौरी आवाहन -

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।। 

गौर्यै नमः । गौरीमावाहयामि । आवाहनार्थे अक्षतान् समर्पयामि । ( हाथके अक्षतको गौरीजी पर चढा दे ।) 

प्रतिष्ठा-

ॐ मनो जूति र्ज्जुषता माज्ज्यस्य बृहस्पति र्य्यज्ञमिमं तनो त्वरिष्ट्टं य्यज्ञः समिमन्दधातु । विश्श्वे देवा सऽ इह मादयन्ता मो३ँ प्रतिष्ठ्ठ ।। गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम् । प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।

आसनम्

ॐ पुरूष ऽएवेदಆ सर्व्वं य्यच्च भाव्यम् । उता मृतत्त्वस्ये शानो यदन्नेनाति रोहति ।।

पाद्यम्

ॐ एतावानस्य महिमा तो ज्ज्यायाँश्च पूरूषः । पादोऽस्य व्विश्वा भूतानि त्रिपा दस्या मृतन्दिवि ।।

गङ्गोदकं निर्मलं च सर्व सौगन्ध संयुतम् । पाद प्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ।। १ ।।

सर्वतीर्थ समुद्भूतं पाद्यं गन्धा दिभिर्युतम् । विघ्नराज गृहाणेदं भगवन्भक्त वत्सल ।। २ ।।

पाद्यं चते मया दत्तं पुष्प गन्धसमन्वितम् । गृहाण देव देवेश प्रसन्नो वरदो भव ।। ३ ।।

गणेशाम्बिकाभ्यां नमः पादयोः पाद्यं समर्पयामि ।।

अर्घ्यम् -

ॐ त्रिपा दूर्ध्वऽ उदैत्पुरूषः पादोऽस्येहाऽभवत्पुनः ततो व्विष्ष्वङ् व्यक्क्रामत्साशनानशनेऽ अभि ।।

निधीनां सर्वदेवानां त्वमऽर्घ्यं गुणा ह्यसि । सिहों परिस्थिते देवि गृहाणार्घ्यं नमोऽस्तु ते ।। १ ।।

गन्ध पुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्यं मयादत्तं प्रसन्नो वरदो भव ।। २ ।।

गणेशाम्बिकाभ्यां नमः हस्तयोरर्घ्वं समर्पयामि ।।

आचमनम् -

ॐ ततो विराडजायत व्विराजो ऽअधि पूरूषः । स जातो ऽअत्यरिच्च्यत पश्चाद्भूमिमथो पुरः ।।

ॐ अध्यवोचदधिवक्ता प्प्रथमो दैव्यो भिषक् ।अहीश्च सर्वाञ्जम्भयत्त्सर्वाश्च यातुधान्न्योऽधराचीः परासुव ।।

कर्पूरेण सुगन्धेन वासितह स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वर ।।

गणेशाम्बिकाभ्यां नमः आचमनीयं समर्पयामि ।।

स्नानम् -

ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्ज्यम् । पशूँस्ताँश्चक्रे व्वायव्यानारण्ण्यां ग्ग्राम्याश्च ये ।।

ॐ आपो हिष्ठ्ठा मयोभुवस्ता न ऽऊर्ज्जे दधातन महे रणाय चक्षसे ।।

मन्दाकिन्यास्तु यद्वारि सर्व पापहरं शुभम् । तदिदं कल्पितं देव स्नानार्थं प्रति गृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः स्नानम् समर्पयामि ।।

पयः स्नानम् -

ॐ पयः पृथिव्यां पय ऽओषधीषु पयोदिव्व्यन्न्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्न्तु मह्यम् ।।

कामधेनु समुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ।।

गणेशाम्बिकाभ्यां नमः पयस्नानं समर्पयामि ।।

दधि स्नानम् -

ॐ दधिक्राव्णो ऽअकारिषञ्जिष्ष्णोरवस्य व्वाजिनः । सुरभि नो मुखा करत्प्रण ऽआयुಆषि तारिषत् ।।

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव । स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि ।।

घृत स्नानम् -

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्श्रितो घृतम्वस्य धाम । अनुष्ष्वधमावह मादयस्व स्वाहा कृतं व्वृषभ व्वक्षि हव्व्यम् ।।

नवनीतसमुत्पन्नं सर्वसन्तोषकारकम । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि ।।

मधु स्नानम् -

ॐ मधुव्वाता ऽऋतायते मधु क्षरन्न्ति सिन्धवः । माद्धवीर्न्नः सन्त्वोषधीः । मधु नक्तमुतोषसो मधुमत्त्पार्थिवः रजः मधु द्यौरस्तु नः पिता मधुमान्नो व्वनस्पतिर्म्मधुमाँ ऽअस्तु सूर्य्यः माध्दवीर्ग्गावो भवन्तु नः ।।

पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः मधु स्नानं समर्पयामि ।।

शर्करा स्नानम् -

ॐ अपाಆ रसमुद्व्दयस ಆ सूर्य्येसन्तಆ समाहितम् । अपा ಆ रसस्ययोरसस्तंव्वो गृह्यम्म्युत्तममुुुपया मगृहीतो सीन्द्रायत्त्वा जुष्ट्टङगृह्णाम्म्येषते योनि रिन्द्रायत्त्वा जुष्टतमम् ।।

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।

अन्नानि मिष्टा नियथा भवन्ति तृप्तिं तथा देव गणा लभन्ते । तां शर्करा देव शशि प्रभां तथा स्नानाय दत्तं मधुरं गृहाण ।।

गणेशाम्बिकाभ्यां नमः शर्करा स्नानं समर्पयामि ।।

पञ्चामृत स्नानम् -

ॐ पञ्चनद्यः सरस्वती मपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशे भवत्सरित् ।।

ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।

पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः पञ्चामृत स्नानं समर्पयामि ।।

गन्धोदक स्नानम् -

ॐ अಆ शुनाते ऽअಆ शुः पृच्च्यताम्परूषापरूः । गन्धस्ते सोमम वतु मदाय रसो अच्च्युतः ।।

ॐ त्वाङ्गन्धर्व्वाऽअखनँस्तत्वा मिन्द्रस्त्वाम्बृहस्पतिः । त्वामोषधे सोमो राजाव्विद्वान्न्यक्ष्माद मुच्च्यत् ।।

नाना सुगन्धितं द्रव्यं चन्दनं रजनीयुतं । गन्धोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ।।

मलयाचल सम्भूतं चन्दनेन विनिःसृतम् । इदं गन्धोदकं स्नानं कुङ्कुमाक्तं च गृह्यताम ।।

गणेशाम्बिकाभ्यां नमः गन्धोदक स्नानं समर्पयामि ।।

तीर्थोदक स्नानं -

गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा । कावेरी सरयू महेन्द्र तनया कर्मण्वती वेदिका ।।

क्षिप्रा वेत्रवती महासुर नदी ख्याता च या दण्डकी । पूर्णा पुण्यजलैर्समुद्र सहिता स्नानं सदा मङ्गलम् ।।

गंगा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः तीर्थोदक स्नानं समर्पयामि ।।

शुद्धोदक स्नानम् -

ॐ शुद्धवालः सर्व्व शुद्धवालो मणि वालस्तऽअश्श्विनाः श्येतः श्येताऽक्षोरूणस्ते रूद्राय पशु पतये कर्ण्णायामाऽ अवलिप्ता रौद्रा नभो रूपाः पार्ज्जन्याः ।।

ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।

नमो हिरण्य गर्भाय हिरण्यकवचाय च । नमो ब्रह्मस्वरूपाय स्नापयामि शुभैः जलैः ।।

मन्दाकिन्यास्तु यद्वारि सर्व पाप हरं शुभम् । तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः शुद्धोदक स्नानं समर्पयामि ।।

वस्त्रम् -

ॐ तस्माद्यज्ञात्सर्व्वहुतऽऋचः सामानिजज्ञिरे । छन्दा ಆ सिजज्ञिरेततस्माद्यजुस्तस्मादजायत ।।

ॐ युवासुवासा परिवीतऽआगात्सऽउश्रेयान्भवति जायमानः । तं धीरासः कवयऽउन्नयन्ति स्वाध्यो नमसा देवयन्तः ।।

ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मिराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।

सर्वभूताधिके सौम्ये लोकलज्जा निवारणे । मयोपपादिते तुभ्यं गृह्येतां वाससी त्वया ।।

गणेशाम्बिकाभ्यां नमः वस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।।

यज्ञोपवितम् --

ॐ तस्मादश्श्वाऽअजायन्तये केचोभयादतः । गावो हजज्ञिरेतस्मात्तस्म्माज्जाताऽअजावयः ।।

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।

स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा । उपवीतं मया दत्तं गृहाण परमेश्वर ।।

गणेशाम्बिकाभ्यां नमः यज्ञोपवीतं समर्पयामि । तदन्तरे द्विराचमनीयं जलं समर्पयामि ।।

उपवस्त्रम् -

ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरूथमासदत्त्स्व । व्वासोऽअग्ने व्विश्वरुप ಆ संव्वयस्व व्विभावसो ।।

ॐ उपैतुं मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ।।

शीतवातोष्ण संत्राणां ल्ज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रं मतः शान्तिं प्रयच्छ मे ।।

गणेशाम्बिकाभ्यां नमः उपवस्त्रं समर्पयामि । तदन्तरे जलं समर्पयामि ।।

चन्दनम् -

दीप पूजनम् --



 

हमसे जुड़े

Translate