वेदी पूजन पद्धति-vedi-pujan-padhati

✨ सम्पूर्ण वेदी पूजनम् ✨

मङ्गलाचरण
मङ्गलम् भगवान् विष्णु मङ्गलम् गरुडध्वजः ।
मङ्गलम् पुण्डरीकाक्षो मङ्गलायतनो हरिः ।।
मङ्गला भगवती देवी मङ्गला सिंघवाहिनी ।
मङ्गला च जगद्धात्री मङ्गलायै नमो नमः।।
मङ्गलम् कौशलेंद्राय महनीय गुणाब्धये ।
चक्रवर्ती तनूजाय सार्वभौमाय मङ्गलम् ।।
मङ्गलम् लक्ष्मण भ्राता मङ्गलम् जानकीश्वरः ।
मङ्गलम् शुभदो रामः मङ्गलम् हनुमत् प्रियः ।।
मङ्गलम् परमानन्दो मङ्गलम् परमेश्वरः ।
मङ्गलम् श्री पद्म नाभो मङ्गलम् पद्मलोचनः ।।
मङ्गलम् करूणा सिंधुः मङ्गलम् विश्वपालकः ।
मङ्गलम् सच्चिदानन्दो मङ्गलम् जगदीश्वरः ।।
मङ्गलम् श्री रङ्गनाथो मङ्गलम् पुरूषोत्तमः ।
मङ्गलम् कमलाकान्तो मङ्गलम् भक्तवत्सलः ।।
पवित्रीधारण
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यान्तरः शुचिः ।।
आचमन
ॐ केशवाय नमः ! ॐ नारायणाय नमः ! ॐ माधवाय नमः !
ॐ रामाय नमः ! ॐ रामचन्द्राय नमः ! ॐ रामभद्राय नमः !
आसन शुद्धिः
ॐ पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ।।
ॐ पृथ्वी त्वया घृता लोका देवि त्वं विष्णुना घृता !
त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।
पवित्रीधारणम्
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव !
उत्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः !!
तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।
शिखाबन्धनम्
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते !
तिष्ठ देवि शिखा मध्ये तेजोवृद्धि कुरूष्व में ।।
ग्रन्थिबन्धनम्
ॐ यदाबन्धनन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मां
तन्नऽआबध्नामि शत् शारदाया युष्मान् जर दृष्टिर्यथा स ।।
प्राणायामः
ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च !
मयस्कराय च नमः शिवाय च शिवतराय च ।।
दिग् रक्षण
ॐ अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिताः !!
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया !
अपक्रामन्तु भूतानां पिशाचाः सर्वतो दिशः !
सर्वेषामविरोधेन् पूजाकर्म समारभेत् ।।
पूर्वे रक्षतु वाराह आग्नेय्यां गरूडध्वजः ।
दक्षिणे पद्मनाभस्तु नैऋृत्यां मधुसूदनः !
पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दनः
उत्तरे श्रीपति रक्षेद् ईशान्यां तु महेश्वरः !
ऊर्ध्वं गोवर्धनो रक्षेद् अधो नन्तस्तथैव च !
एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः।।
स्वस्तिवाचन
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः !
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे !!
देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम् !
देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे !!
तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् !
अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम् !!
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम् !
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये !!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः !
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु !!
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः !
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह !!
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः !
स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः !!
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् !
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः !!
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः !
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् !
द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः !
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि !!
यतो यतः समीहसे ततो नो अभयं कुरु !
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः !! सुशान्तिर्भवतु !!
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव !!
इति नमस्कृत्य मङ्गलपाठम्
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
पूजारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।
येषां हृदिस्थो भगवान्मंगलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवां नीतिर्मतिर्मम् ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृतेः सकलकल्याणंभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मे शानजनार्दनाः ॥
विश्वेशं माधवं दुण्डिं दण्डपाणि च भैरवम् ।
वन्दे काशी गुहां गंगां भवानी मणिकर्णिकाम् ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैतामोक्ष दायिका ॥
वक्रतु़ण्ड महाकाय कोटिसूर्य समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान् ।
सरस्वती प्रणम्यादौ सर्व कार्येषु सर्वदा ॥
सितासिते यत्र चामरे नद्यौ विभाते मुनि भानुकन्यके ।
नीलात्पत्रं वट एव साक्षात् स तीर्थराजो जयति प्रयागः ॥
श्री सद्गुरू स्मरण मंत्र
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं, द्वंद्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभुतं सद्गुरूं तं नमामि।।
श्री गणेश स्मरण मंत्र
हस्तीन्द्राननमिन्दुचूडमरूणच्छायं त्रिनेत्रं रसा, दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया संततम् ।
बीजापूरगदाधनुस्त्रिशिखयुत्चक्राब्जपाशोत्पल-व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे।।
श्री गौरी स्मरण मंत्र
चाञ्चल्यारूणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं, चारूस्मेरमुखां चराचरजगत्संरक्षणीं सत्पदाम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां, श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।
श्री कलश स्मरण मंत्र
नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय ।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते।।
श्री षोडशमातृका स्मरण मंत्र
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया ।
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रासुधाः ।
चामुण्डा गणनाथरूद्रसहिता रक्षन्तु नो मातरः ।।
श्री सप्तघृतमातृका स्मरण मंत्र
सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरावर्तनाभिः स्तनभरमिता शुभ्रवस्त्रोत्तरीया ।।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः ।
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ।।
श्री नवग्रह स्मरण मंत्र
आधारे प्रतमे सहस्त्रकिरणं ताराधवं स्वाश्रये ।
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम् ।।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकुटस्थले ।
नाडिमर्मसु राहु-केतु-तिलका नित्यं नमाम्यायुषे ।।
श्री वास्तोष्पति स्मरण मंत्र
वास्तोस्पते सकल किल्विष कल्म वारे ।
लोकस्य राक्षण विधौ त्वधि जात भूमौ ।।
ऋद्धि प्रदो भवतु सर्व शरीर भाजां ।
देवाधिदेव नितरां कुरू मङ्गलम् में ।।
नैऋत्य यज्ञ भवने भुवने गृहे च ।
पूजां गृहाण विधिना सृकृतं विधत्स्व ।
दोषं व्यपोहतु गृहस्य च में पुनातु ।
माम पाहि पाहि कृपया खलु वास्तु देव ।।
श्री क्षेत्रपाल स्मरण मंत्र
करकलितकपालः कुंडली दंडपाणिः ।
तरूणतिमिरनीलो व्याल यज्ञोपवीती ।।
क्रतुसमयसपर्या विघ्नविच्छेद हेतुः ।
जयति बटुकनाथः सिद्धिदः साधकानाम् ।।
श्री सर्वतो भद्र मण्डल स्मरण मंत्र
रोगा हरन्ति सततं प्रबलाः शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन् दिनानि,तस्मात्त्वमद्य शरणं मम दीनबन्धो ।।

satyanarayan katha in hindi


🌺 संपूर्ण सत्यनारायण पूजन विधि

श्री सत्यनारायण-पूजन तथा कथा-श्रवण अत्यन्त पवित्र,पुण्यप्रद और समस्त मङ्गलोंको प्रदान करनेवाला हैं । बड़े ही उत्साह एवं श्रद्धा-भक्तिसे समन्वित होकर इसका अनुष्ठान करना चाहिये । इससे जीवनमें सत्यकी प्रतिष्ठा स्थापित होती हैं और भगवान् की विशेष कृपा भी प्राप्त होती हैं ।

पूजन तथा कथा-श्रवण आदिके लिये किसी पवित्र स्थानमें, देवस्थानमें अथवा घरमें, मंदिरमें, मण्डप बनाकर उसको अनेक प्रकार से अलङ्कृत करना चाहिये । चारो तरफ भगवान् के सुन्दर विग्रहोंको लगाना चाहिये । मण्डपके मध्यमें भगवान् सत्यनारायण (श्री हरिविष्णु भगवान् का या शालग्रामशिला)-के लिये एक सिंहासन लगाकर उसपर भगवान् के विग्रहोंको प्रतिष्ठित करना चाहिये । यथासम्भव केलेके स्तम्भोंसे मण्डपको मण्डित करना चाहिये और भगवती तुलसी देवी-को स्थापित करना चाहिये ।।


🔹श्रीसत्यनारायण पूजन सामग्री

  • रोली १ पै० , कलावा ३ पै० , सिन्दूर १ पै०,  हल्दी पाउडर ५० ग्रा०, शहद ५० ग्रा० गुडबतासा १०० ग्रा० गङ्गाजल , जनेऊ ५ पीस, लाल कपड़ा १ मीटर , गमछा १ , अगरबत्ती १ पै०, माचिस १ , लौंग ५ रू०, इलायची ५ रू०, सुपारी ११ नग, बासमती चावल २०० ग्रा०, शुद्ध गाय घी, रूईबत्ती १ पै०, कपूर १० पीस, दोना १ पै०, 
  • नारियल, आम के पत्ते,  फूलमाला, पंचमेवा, दिया ५ पीस , दूबघास , पानपत्ता ११ नग, तुलसीपत्ता, केला पत्ता, फल मिठाई स्वेच्छा पूर्वक, दूध १०० ग्रा०, दही १०० ग्रा०, जटा नारियल १ पीस, 

🔹सम्पूर्ण हवन सामग्री 

नारियल गोला १ पीस, आम की लकड़ी हवन अनुसार, नवग्रह लकड़ी १ पै०, दशांग हवन १ पै० , कालातिल १०० ग्रा०, जौ ५० ग्रा०, अक्षत २५ ग्रा०, इन्द्र जौ ५० ग्रा०, कमलगट्टा ५० ग्रा०, भोजपत्र १ पै०, गूगल १ पै०,  

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
© 2025 आपका ब्लॉग नाम

sampurn pujan vidhi

 (1) मङ्गलाचरणम् 

 मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।

  मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।

(2) पवित्रकरणम् 

  अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।

(3) त्रिराचमनम् 

 केशवाय नमः ।  माधवाय नमः ।  नारायणाय नमः ।  गोविन्दाय नमः ।।

(4) आसनशुद्धिः- 

 पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः । 

 पृथ्वि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।

(5) पवित्रीधारणम् --

 पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।

(6) तिलक या भस्म धारणम् 

 आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।

 त्र्यायुषं जमदग्न्ने । कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषम् । तन्नोऽअस्तु त्र्यायुषम् ।।

(7) शिखा बन्धनम् 

 चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबन्धे तेजो वृद्धिं कुरूष्वमे ।।

(8) यजमान  प्राणायामः- करे ।।

 ब्रह्म यज्ञानं प्रथमं पुरस्ताद् विसीमतः सूरुचो व्वेन ऽआवः । स बुध्ध्न्या ऽउपमा अस्य व्विष्ठाः सतश्श्च योनिमसतश्च विवः-

(9) रक्षा विधानम्  दिग् रक्षणम् ।।

 गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णु रूद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ।।

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ।।

दैत्याचार्य़ं नमस्कृत्य सूर्यपूत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः ।।

शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्ग मुनिं नमस्कृत्य नारदं मुनिसत्तमम् ।।

वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्र विशारदम् ।।

विद्याधिका ये मुनय आचार्यश्च तपोधनाः । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षा करान् सदा ।। 

(10) स्वस्तिवाचन मङ्गलपाठ 

हरिः  आनो  भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो  रक्क्षितारो दिवे दिवे ।। १ ।। 

देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।

तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।

तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।

पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।

भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।

 










हनुमान चालीसा Hanuman Chalisha

।। श्री हनुमान चालीसा ।।


श्री गुरु चरन सरोज रज , निज मन मुकुर सुधारि । बरनउँ रघुबर बिमल जस , जो दायक फल चारि ।

बुद्धिहीन तनु जानि के , सुमिरौ पवन-कुमार । बल बुधि विद्या देहु मोहिं , हरहु कलेस बिकार ।।

।। चौपाई ।।

जय हनुमान ज्ञान गुनसागर । जय कपीस तिहुँलोक उजागर ।।

रामदूत अतुलित बलधामा । अंजनि पुत्र पवनसुत नामा ।।

महाबीर बिक्रम बजरंगी । कुमति निवार सुमति के संगी ।।

कञ्चन बरन विराज सुबेसा । कानन कुण्डल कुञ्चित केसा ।।

हाथ बज्र औ ध्वजा बिराजै । काँधे मूँज जनेऊ साजै ।।

शङ्कर-सुवन केसरी नन्दन । तेज प्रताप महा जग वन्दन ।।

विद्यावान गुणी अति चातुर । राम काज करिबे को आतुर ।।

प्रभु चरित्र सुनिबे को रसिया । राम लखन सीता मन बसिया ।।

सूक्ष्म रुप धरि सियहिं दिखावा । बिकट रुप धरि लङ्क जरावा ।।

भीम रुप धरि असुर सँहारे । रामचन्द्र के काज सँवारे ।।

लाय सजीवन लखन जियाये । श्रीरघुवीर हरषि उर लाये ।।

रघुपति कीन्हीं बहुत बडा़ई । तुम मम प्रिय भरतहिं सम भाई ।।

सहस बदन तुम्हरो यश गावै । अस कहि श्रीपति कण्ठ लगावैं ।।

सनकादिक ब्रह्मादि मुनीसा । नारद शारद सहित अहीसा ।।

यम कुबेर दिगपाल जहाँ ते । कवि-कोविद कहि सके कहाँ ते ।।

तुम उपकार सुग्रीवहीं कीन्हा । राम मिलाय राजपद दीन्हा ।।

तुम्हरों मन्त्र विभीषण माना । लंकेश्वर भये सब जग जाना ।।

युग सहस्त्र योजन पर भानू । लील्यो ताहि मधुर फल जानू ।।

प्रभु मुद्रिका मेलि मुख माहीं । जलधि लाँघि गये अचरज नाहीं ।।

दुर्गम काज जगत के जेते । सुगम अनुग्रह तुम्हरे तेते ।।

राम दुवारें तुम रखवारे । होत न आज्ञा बिनु पैसारे ।।

सब सुख लहै तुम्हारी सरना । तुम रक्षक काहू को डरना ।।

आपन तेज सम्हारौ आपै । तीनों लोक हाँक तें काँपै ।।

भूत पिचास निकट नहिं आवै । महाबीर जब नाम सुनावै ।।

नाशै रोग हरै सब पीरा । जपत निरन्तर हनुमत बीरा ।।

संकट ते हनुमान छुडा़वै । मन क्रम बचन ध्यान जो लावै ।।

सब पर राम तपस्वी राजा । तिन के काज सकल तुम साजा ।।

और मनोरथ जो कोइ लावै । सोइ अमित जिवन फल पावै ।।

चारों जुग परताप तुम्हारा । है परसिद्ध जगत उजियारा ।।

साधु संत के तुम रखवारे । असुर निकन्दन राम दुलारे ।।

अष्ट सिद्धि नौ निधि के दाता । अस बर दीन जानकी माता ।।

राम रसायन तुम्हरे पासा । सदा रहो रघुपति के दासा ।।

तुम्हरे भजन राम को भावै । जन्म-जन्म के दुःख बिसरावै ।।

अन्तकाल रघुबर पुर जाई । जहाँ जन्म हरि-भक्त कहाई ।।

और देवता चित्त न धरई । हनुमत सेइ सर्व सुख करई ।।

संकट कटौ मिटै सब पीरा । जो सुमिरै हनुमत बलबीरा ।।

जय जय जय हनुमान गोसाई । कृपा करहु गुरुदेव की नाईं ।।

यह शत बार पाठ कर जोई । छूटहिं बन्दि महा सुख होई ।।

जो यह पढै़ हनुमान चालीसा । होय सिद्ध साखी गौरीसा ।।

तुलसी दास सदा हरि चेरा । कीजै नाथ हृदय मँह डेरा ।।

दोहा - पवन तनय संकट हरन , मङ्गल मूरति रुप । राम लखन सीता सहित , हृदय बसहु सुरभूप ।।

    

 

हमसे जुड़े

Translate